॥ श्रीः ॥
॥ द्वैतवेदान्ते विशेषः ॥
“अस्त्यत्र प्रमेयविषः शिंशुपा वृक्षविशेषः मा हिंस्यात् सर्वा भूतानि अग्निशोमीयं पशुमालभेत इत्यत्र समान्यविशेषभावः वर्तते” इत्यादौ वैलक्षण्यार्थकः विशेषशब्दः प्रयुक्तः । तथाच भेदाभावेऽपि यत्र भेदव्यवहारादिकार्यं भवति तन्निर्वाहायाचार्यैः भेदप्रतिनिधितया विशेषो नाम पदार्थः अभ्युपगतः । यथा घटरूपयोर्गवाश्वा-दिवद्विविक्तत्वेन प्रतीत्यभावादभेदस्तावत्प्रमितः । तथापि ’घटस्य रूपं’ इत्याधारादेय-भावेन व्यवहारः, रूपे ज्ञातेऽपि कदाचित् घटादीनामज्ञानम्,तद्वाचकयोः शब्दयोः पर्यायताभावः, रूपरसादीनामनेकत्वेऽपि घटस्यानेकत्वाभाव इत्यादिरूपानां घटेन निर्विशेषाभेदे सर्वथानुपपद्यमानं रूपादीनां धर्मिणा निर्विशेषाभेदं निवारयत्तेषां घटविशेषत्वं व्यवस्थापयति । रूपादीनां घटेन भेदाभावेऽपि अपर्यायशब्दव्यवहारादि भेदकार्यनिर्वाहाय कश्चन विशेषो नाम पदार्थोऽङ्गीकार्य एवेत्यर्थापत्या विशेष-स्यातिरिक्तपदार्थत्वं सिध्यति । तदुक्तम्-
“भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥ इति ।
एवं प्रत्यक्षमपि विशेषे प्रमाणं भवति ।
तदुक्तमाचार्यैः- “उक्त्वा धर्मान्पृथक्त्वस्य निषेधादेवमेव हि ।
विशषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षित ॥ इति ।
अस्यायमर्थः “सत्यं ज्ञानमनन्तं ब्रह्म” विज्ञानमानन्दं ब्रह्म” “यः सर्वज्ञः सः सर्ववित्” “बृहन्तो ह्यस्मिन् गणाः” इत्यादौ असङ्ख्यान् धर्मानस्मिन्नुक्त्वा
“यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति” ॥
“नेह नानास्ति किश्चन” इत्यादिश्रुतिषु भगवति स्वभिन्नधर्माणां, ’नानेव’ इत्यत्र इवशब्देन भिन्नाभिन्नधर्माणाञ्च निषेधात्तेषां भगवताभेदेऽप्यपर्यायशब्दवाच्यत्वम्, एकत्वानेकत्वादिभेदव्यवहारोऽपि सर्वेषां साक्षीप्रमितः वर्तते । तथाच तादृशश्रुति-सहकृतसाक्षी तेषां धर्माणां ब्रह्मणा सविशेषाभेदं साधयन्ती भदाभावेऽपि भेदव्यव-हारनिर्वाहकविशेषे प्रमाणं भवति । न च भेदेनैव तादृशव्यवहारे किं विशेषेणेति वाच्यम् । भेदस्योक्तश्रुतिबाधितत्वात् ।
एवं तादृशभेदव्यवहारसहकृतरूपादीनां घटादिना सह गवाश्वादिवद्विवेकेनानु-पलभ्यमानाभेदग्राहकप्रत्यक्षमपि विशेषे प्रमाणं भवति । न च प्रत्यक्षस्य केवलं धर्म-धर्मिणोरभेदसाधकतया कथं विशेषे प्रमाणत्वमिति वाच्यम् । केवलस्य तस्य धर्माणां धर्म्यभेदसाधकत्वेऽपि भेदव्यवहारानुगृहीतस्य च विशेषसाधकत्वं युक्तमेव । न हि सहकारिणामभावे करणानां या शक्तिः सैव सहकारिसमवधानेऽपि । प्रत्यक्षस्य संस्का-रसहकृतस्य अतीतगोचरत्वानुपपत्तेः ।
एवं सर्वैरपि वादिभिः स्वसमयपरिरक्षणार्थं विशेषोऽङ्गीकार्यः । तथाहि- भेदवादिनोऽभेदवादिनो भेदाभेदवादिन इति त्रिविधा प्रसिद्धाः । तत्र भेदवादिनः धर्मधर्मिणोः इहेदमित्यबाधितप्रतीतिबलाद् भेदमभ्युपगम्य विशिष्टव्यवहारनिर्वाहाय समवायसम्बन्धमङ्गीकुर्वन्ति । तैरपि विशेषोऽङ्गीकार्य एव । ते हि घटे रूपमित्या-द्यबाधितेहप्रतीतिबलात् गुणादीनां गुण्यादिना साकं समवायमङ्कुर्वन्ति । तद्वदेवेह तन्तुपटयोः समवाय इत्यत्राप्यबाधितेहप्रत्ययसत्वेऽपि समवायतन्तुपटयोः समवाया-न्तराङ्गीकारे तत्राऽपीहप्रत्ययनिर्वाहाय समवायान्तरमित्यनवस्थाभयात् तयोः समवायमनङ्गीकृत्य तत्स्वरूपत्वेनैवाङ्गीकुर्वन्ति । तथाच तन्तुपटसमवायस्य तन्तु-पटस्वरूपत्वेऽपि इह तन्तुपटयोः समवाय इति व्यपदेशभेदनिर्वाहाय समवायस्य तेन सह निर्विशेषभेदोऽङ्गीकर्तुं न शक्यते । किन्तु तद्विशेषत्वमेव समवायस्य । तस्मात् भेदवादिभिः अवश्यं विशेषोङ्गीकार्य एव । तदाह सूत्रकारः-
“ॐ समवायाभ्युपगमाच्चसाम्यादनवस्थितेः ॐ” इति ।
एवं गुणादीनां गुण्यादिना ये अभेदमङ्गीकुर्वन्ति । तैरपि घटेन सह निर्विशे-षाभिन्न तद्घटे अपर्यायशब्दवाच्यत्व,इहेदमिति सम्बन्धिव्यवहार,ज्ञातत्वाज्ञातत्व, एकत्वानेकत्वाद्युपपत्यर्थं गुणादीनां द्रव्यादिविशेषत्वमङ्गीकार्यमव । न हि निर्विशे-षाभिन्नत्वे एतादृशभेदव्यवहारः क्वचित्प्रमितः ।
एवं भेदाभेदवादिभिरपि विशेषोऽङ्गीकार्यः । ते तु प्रत्यक्षेण गवाश्वादिवद्विवि-क्तत्वेनानुपलम्भात्तयोरभेदं भेदव्यवहारनिर्वाहार्थं भेदञ्चाङ्गीकुर्वन्ति । तत्र विशेषा-भावे च एकत्रैकप्रतियोगिकयोः भेदाभेदयोः कुत्राप्यनुपलम्भात् साङ्कर्यवारणं सर्वथा-ऽशक्यम् । अन्यथा भेदाभेदवदेव सर्वेषामपि विरुद्धानां पदार्थानामेकत्र सहावस्थान-सम्भवेन विरोधवार्तैव लुप्येत । तयोः सहावस्थानस्य प्रमाणसिद्धत्वाद्विरोधस्य दर्शन-मूलत्वेन सहावस्थितत्वेन दृष्टे विरोधो वक्तुं न शक्यते इति चेत्- सत्यम् । भेदाभेदयो-स्तावत् भावाभावरूपत्वेन विरोधः सर्वानुभवसिद्धः । तादृशविरुद्धयोरेकत्रावस्थानं तन्निर्वाहकविशेषेण विना न सम्भवति । विशेषो ह्यन्यत्र विरुद्धत्वेन दृष्टयोरविरोधः क्वचित्प्रमितः तन्निर्वाहकतयैव धर्मिग्राहकमानेन प्रमितः । यथाभिन्ने भेदव्यवहारोऽ-न्यत्र विरुद्धत्वेन दृष्टः गुणगुण्यादिषु प्रमाणसिद्धश्च । तन्निर्वाहो हि विशेषेण भवति ।
नचैवं सर्वत्र विशेषेणैव व्यवहारनिर्वाहे किं भेदेनेति भेदविलयप्रसङ्गः इति वाच्यम् । विशेषो हि भेदप्रतिनिधितया यत्राभेदः प्रमितः तत्र भेदासम्भवेन भेदकार्य-निर्वाहर्थमङ्गीकृतः । सर्वत्र भेदकार्यस्य तेनैव निर्वाहे तस्य भेदत्वमेव स्यात् । न तु तत्प्रतिनिधित्वम् । तस्मात् यत्र भेदाभावः प्रमाणसिद्धः भेदकार्यश्च दृश्यते तत्र भेद-प्रवेशासम्भवात् भेदप्रतिनिधित्वेन तत्कार्यं विशेषः निर्वहति ।
अत एवायावद्रव्यभाविगुणगुण्यादीनां “तस्मिन् सत्यप्यसत्वादि”ति हेतुना भेदस्यैव प्रमितत्वेन तयोरभेदाभावात् तत्र भेदकार्यं भेद एव करोति । न तु विशेष इति न तत्र विशेषोऽङ्गीकार्यः । तस्मादेव तत्र भेदाभेदोऽङ्गीकृतः ।
एतदप्युक्तमाचार्यैः-
“भेदो नाशे भवेत्तथा ।
सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपकाः ।
भावे त एव चोच्छेदात्तदन्ये च समस्तशः ॥ इति ।
तस्मात् सर्वैरपि वादिभिः स्वसिद्धान्तसंरक्षणार्थं विशेषोऽङ्गीकार्य एव । उक्तञ्च श्रीवादिराजश्रीचरणैः युक्तिमल्लिकायम्-
यथा हनूमान् गन्धमादनपर्वतमानीय सर्वेषां जीवरक्षणं कृतवान् तद्वत् भग-वानाचार्योऽपि विशेषनामकपदार्थं प्रमाणेन प्रसाध्य सर्वेषां स्वसिद्धान्तसंरक्षणोपायं प्रदर्श्य सर्वान् संरक्षितवानिति ।
तस्मादुक्तमाचार्यैः-
“एतादॄशे विशेषेऽस्मिन् को द्वेषो वादिनां भवेदि” ति ॥
॥ श्रीकृष्णार्पणमस्तु ॥